अमरकोशः


श्लोकः

छात्त्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः । एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 छात्र छात्रः पुंलिङ्गः गुरुदोषाच्छादनं छत्त्रम् । तद्धितः अकारान्तः
2 अन्तेवासिन् अन्तेवासिन् पुंलिङ्गः अन्ते समीपे वस्तुं शीलमस्य । णिनि कृत् नकारान्तः
3 शिष्य शिष्यः पुंलिङ्गः शिष्यते । क्यप् कृत् अकारान्तः
4 शैक्ष शैक्षः पुंलिङ्गः शिक्षामधीयते । अण् तद्धितः अकारान्तः
5 प्राथमकल्पिक प्राथमकल्पिकाः पुंलिङ्गः प्रथमकल्प: आद्यारम्भः प्रयोजनं येषां ते । ठक् तद्धितः अकारान्तः
6 सब्रह्मचारिन् सब्रह्मचारिणः पुंलिङ्गः एकस्मिन् ब्रह्मणि व्रताचरणं येषां ते । णिनि कृत् नकारान्तः