सब्रह्मचारिणः

सुधाव्याख्या

एकेति । ब्रह्मवेदस्तदध्ययनव्रतमप्युपचाराद्ब्रह्म । एकस्मिन् ब्रह्मणि व्रताचरणं येषां ते । मिथः परस्परम् । समानं ब्रह्म चरन्ति । ‘व्रते’ (३.२.८०) इति णिनिः । ‘चरणे ब्रह्मचारिणि’ (६.३.८६) इति समानस्य सः ।


प्रक्रिया

धातुः -


चरँ गतौ भक्षणे च
चर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
समान + ब्रह्म + चर् + णिनि - व्रते 3.2.80, उपपदमतिङ् 2.2.19
समान + ब्रह्म + चर् + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, चुटू 1.3.7, तस्य लोपः 1.3.9
समान + ब्रह्मचारिन् - अत उपधायाः 7.2.116
सब्रह्मचारिन् - समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु 6.3.84
सब्रह्मचारिण् - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
सब्रह्मचारिण् + जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सब्रह्मचारिण् + अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
सब्रह्मचारिणस् - प्रथमयोः पूर्वसवर्णः 6.1.102
सब्रह्मचारिणरु - ससजुषो रुः 8.2.66
सब्रह्मचारिणर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सब्रह्मचारिणः - खरवसानयोर्विसर्जनीयः 8.3.15