अमरकोशः


श्लोकः

वेणिप्रवेणीशीर्षण्यशिरस्यौ विशदे कचे । पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ॥ ९८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वेणि वेणिः स्त्रीलिङ्गः वेणति । इन् उणादिः इकारान्तः
2 प्रवेणी प्रवेणी स्त्रीलिङ्गः इन् उणादिः ईकारान्तः
3 शीर्षण्य शीर्षण्यः पुंलिङ्गः शिरसि भवः । यत् तद्धितः अकारान्तः
4 शिरस्य शिरस्यः पुंलिङ्गः यत् तद्धितः अकारान्तः
5 पाश पाशः पुंलिङ्गः पाश्यते । घञ् कृत् अकारान्तः
6 पक्ष पक्षः पुंलिङ्गः पक्ष्यते । घञ् कृत् अकारान्तः
7 हस्त हस्तः पुंलिङ्गः हसति, हस्यते वा । तन् उणादिः अकारान्तः