शीर्षण्यः

सुधाव्याख्या

शीति । शिरसि भवः । ‘शरीरावयवाच्च’ (४.३.५५) इति यत् । ‘ये च तद्धिते’ (६.१.६१) इत्यत्र ‘वा केशेषु’ इति वचनाद्वा शीर्षन् । ‘शीर्षण्यं तु शीर्षके । सुकेशे पुंसि’ (इति मेदिनी) ॥