हस्तः

सुधाव्याख्या

हसति, हस्यते वा । ‘हसे हसने’ (भ्वा० प० से०) । ‘हसिमृग्रिण्-’ (उ० ३.८६) इति तन् । ‘हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च । ऋक्षे केशात्परो व्राते’ (इति मेदिनी) ॥