पक्षः

सुधाव्याख्या

पक्ष्यते । ‘पक्ष परिग्रहे’ (भ्वा० प० से०) । घञ् (३.३.१९) । घः (३.३.११८) वा । ‘पक्षो मासार्धके गेहपार्श्वसाध्यविशेषयोः । केशादेः परतो वृन्दे बले सखिसहाययोः’ (इति मेदिनी) ॥