अमरकोशः


श्लोकः

पुनर्भव: कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् । प्रादेशतालगोकर्णास्तर्जन्यादियुते तते ॥ ८३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पुनर्भव पुनर्भवः पुंलिङ्गः पुनर्भवति । अच् कृत् अकारान्तः
2 कररूह कररूहः पुंलिङ्गः करे रोहति । कृत् अकारान्तः
3 नख नखः पुंलिङ्गः, नपुंसकलिङ्गः न खमस्य । खन् उणादिः अकारान्तः
4 नखर नखरः पुंलिङ्गः, नपुंसकलिङ्गः न खनति, खन्यते वा । डरा कृत् अकारान्तः
5 प्रादेश प्रादेशः पुंलिङ्गः प्रदिश्यते । घञ् कृत् अकारान्तः
6 ताल तालः पुंलिङ्गः तलत्यत्र । घञ् कृत् अकारान्तः
7 गोकर्ण गोकर्णः पुंलिङ्गः गोः कर्ण इव । तत्पुरुषः समासः अकारान्तः