तालः

सुधाव्याख्या

तलत्यत्र । ‘तल प्रतिष्ठायाम्’ (चु० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘तालः करतलेऽङ्गुष्ठमध्यमाभ्यां च सम्मिते । गीतकालक्रियामाने करस्फाले द्रुमान्तरे’ (इति मेदिनी) ॥