गोकर्णः

सुधाव्याख्या

गोः कर्ण इव । गोकर्णोऽश्वतरे सर्पे सारङ्गे प्रमथान्तरे । अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधौ’ (इति विश्वः) ॥


प्रक्रिया

धातुः -


गो + ङस् + कर्ण + सु - षष्ठी 2.2.8
गो + कर्ण - सुपो धातुप्रातिपदिकयोः 2.4.71
गोकर्ण + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गोकर्ण + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गोकर्ण + रु - ससजुषो रुः 8.2.66
गोकर्ण + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गोकर्णः - खरवसानयोर्विसर्जनीयः 8.3.15