प्रादेशः

सुधाव्याख्या

प्रेति । प्रदिश्यते । ‘दिश अतिसर्जने’ (तु० उ० अ०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘उपसर्गस्य–’ (६.३.१२२) इति वा दीर्घः । ‘प्रदेशो देशमात्रे स्यात्तर्जन्यङ्गुष्ठसंमिते’ (इति मेदिनी) ॥