अमरकोशः


श्लोकः

मणिबन्धादाकनिष्ठं करस्य करभो बहि: । पञ्चशाख: शयः पाणि: तर्जनी स्यात्प्रदेशनी ॥ ८१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 करभ करभः पुंलिङ्गः मणिर्बध्यतेऽत्र । अभच् उणादिः अकारान्तः
2 पञ्चशाख पञ्चशाखः पुंलिङ्गः पञ्च शाखा इवाङ्गुलयोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
3 शय शयः पुंलिङ्गः शेतेऽस्मिन् सर्वम् । कृत् अकारान्तः
4 पाणि पाणिः पुंलिङ्गः पणायन्त्यनेन । इण् उणादिः इकारान्तः
5 तर्जनी तर्जनी स्त्रीलिङ्गः तर्ज्यतेऽनया । ल्युट् कृत् ईकारान्तः
6 प्रदेशिनी प्रदेशिनी स्त्रीलिङ्गः प्रदिश्यतेऽनया । ल्युट् कृत् ईकारान्तः