पाणिः

सुधाव्याख्या

पणायन्त्यनेन । ‘पण व्यवहारे’ (भ्वा० आ० से०) । ‘अशिपणाय्यो रुडायलुकौ च’ (उ० ४.१३३) इतीण् आयप्रत्ययस्य लुक् च ।–पण्यतेऽनेन । बाहुलकात् इञ्- इति मुकुटस्तूक्तसूत्रास्मरणमूलकः ॥