शयः

सुधाव्याख्या

शेतेऽस्मिन् सर्वम् । ‘पुंसि–’ (३.३.१२१) इति घः । ‘शयः शय्याहिपाणिषु’ (इति मेदिनी) । ‘शमः’ इति पाठान्तरम् । शाम्यति कण्डूर्मलो वानेन । ‘शमु उपशमे’ (दि० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘नोदात्तोपदेश-’ (७.३.३४) इति न वृद्धिः । ‘पाणिः शमः शयो हस्तः’ इत्यमरमाला ॥