करभः

सुधाव्याख्या

मणीति । मणिर्बध्यतेऽत्र । ‘बन्ध बन्धने’ (क्र्या० प० अ०) । ‘हलश्च’ (३.३.१२१) इति घञ् । (‘मणिबन्धः पाणिमूलम्’ इति हलायुधः । ‘करोऽस्यादौ मणिबन्धो मणिश्च सः’ इति हैमनाममाला) । कनिष्ठाया आ । ‘आङ् मर्यादाभिविध्योः’ (२.१.१३) इत्यव्ययीभावः । कृणाति । ‘कॄञ् हिंसायाम्’ (क्र्या० प० से०) । किरत्यनेन । ‘कॄ विक्षेपे’ (तु० प० से०) वा । ‘कॄशॄशलिकलिगर्दिभ्योऽभच्’ (उ० ३.१२२) । -‘कॄशॄगर्दिराशिवल्लिभ्योऽभच्’ इति मुकुटोऽपाणिनीयः । करे भाति । ‘भा दीप्तौ’ (अ० प० अ०) । ‘सुपि-’ (३.२.४) इति को वा । ‘करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते’ (इति मेदिनी) ॥ ‘ज्ञापकसिद्धं न सर्वत्र’ इति बहिर्योगे पञ्चमी’ (ज्ञापि० २.१.१२) न ।