अमरकोशः


श्लोकः

कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः । पादाग्रं प्रपदं पादः पदंघ्रिश्चरणोऽस्त्रियाम् ॥ ७१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काय कायः पुंलिङ्गः चीयतेऽन्नादिभिः । घञ् कृत् अकारान्तः
2 देह देहः पुंलिङ्गः, नपुंसकलिङ्गः दिह्यते । घञ् कृत् अकारान्तः
3 मूर्ति मूर्तिः स्त्रीलिङ्गः मूर्छति । क्तिच् कृत् इकारान्तः
4 तनु तनुः स्त्रीलिङ्गः तनोति, तन्यते, वा । उणादिः उकारान्तः
5 तनू तनूः स्त्रीलिङ्गः ऊङ् तद्धितः ऊकारान्तः
6 पादाग्र पादाग्रम् नपुंसकलिङ्गः पादस्याग्रम् ॥ तत्पुरुषः समासः अकारान्तः
7 प्रपद प्रपदम् नपुंसकलिङ्गः प्रकृष्टं प्रारब्धं प्रगतं वा पदम् । तत्पुरुषः समासः अकारान्तः
8 पाद पादः पुंलिङ्गः पद्यते । घञ् कृत् अकारान्तः
9 पद् पद् पुंलिङ्गः पद्यते । क्विप् कृत् दकारान्तः
10 अङ्घ्रि अङ्घ्रिः पुंलिङ्गः अंहते, अनेन वा । क्रिन् उणादिः इकारान्तः
11 चरण चरणः पुंलिङ्गः, नपुंसकलिङ्गः चरन्त्यनेन । ल्युट् कृत् अकारान्तः