पद्

सुधाव्याख्या

पद्यते । क्विप् (३.२.१७८) । स्वामी तु-‘पदोंऽह्निः’-इति पठन् दान्तं न मन्यते । ‘पद्दन्नस्-’ (६.१.६३) इत्यादेशविधानाज्ज्ञापकात् । अन्ये तु पादादेश एवायं पठितः -इत्याहुः । प्रभृतिग्रहणस्य प्रकारार्थत्वेन शसाद्यनन्तर्भूतेऽपि तत्प्रवृत्तेः सम्भवात् । अत एव औङः श्याम् ‘ककुद्दोषणी’ इति (प्रकृतसूत्रे) भाष्योदाहरणमपि संगच्छते । पद्यतेऽनेन । ‘खनौ घ च’ (३.३.१२५) इति घो घित्करणात् ‘अन्यतोऽपि’ इति पदशब्दोऽन्तः स्वाम्युक्तः ॥