तनुः

सुधाव्याख्या

तनोति, तन्यते, वा । ‘भृमृशि-’ (उ० १.७) इत्युः । ‘तनुर्वपुस्त्वचोः विरलेऽल्पे कृशे’ (इति हैमः) । ‘तनुः काये त्वचि स्त्री स्यात्त्रिष्वल्पे विरले कृशे’ इति (नान्तेषु) विश्वमेदिन्यौ । ‘अर्ति- पॄवपि-’ (उ० २.११७) इत्यादिना उसि ‘तनुः’ सान्तापि ।