कायः

सुधाव्याख्या

चीयतेऽन्नादिभिः । ‘चिञ् चयने’ (स्वा० उ० अ०) । ‘निवासचिति-’ (३.३.४१) इति घञ् । चस्य कः । ‘कायः कदैवते मूर्तौ संघे लक्षस्वभावयोः । मनुष्यतीर्थे कायं स्यात्’ (इति मेदिनी) ॥