अमरकोशः


श्लोकः

कूपकौ तु नितम्बस्थौ द्वयहीने कुकुन्दरे । स्त्रियां स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः ॥ ७५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुकुन्दर कुकुन्दरम् नपुंसकलिङ्गः कूपाविव । अण् कृत् अकारान्तः
2 स्फिच् स्फिच् स्त्रीलिङ्गः स्फायते । डिच् बाहुलकात् चकारान्तः
3 कटिप्रोथ कटिप्रोथः पुंलिङ्गः कट्याः प्रोथौ मांसपिण्डौ । तत्पुरुषः समासः अकारान्तः
4 उपस्थ उपस्थः पुंलिङ्गः भगशिश्नयोः । कृत् अकारान्तः