स्फिच्

सुधाव्याख्या

स्त्रीति । स्फायते । ‘स्फायी वृद्धौ’ (भ्वा० आ० से०) । बाहुलकात् डिच् प्रत्ययः । स्फोटयति । ‘स्फिट हिंसायाम्’ (चु० प० से०) । क्विप् (३.२.१७८) । ‘स्फिगपूत-’ (६.२.१८७) इति निपातनाट्टस्य चः इति मुकुटः ॥