कटिप्रोथः

सुधाव्याख्या

प्रोथति । ‘प्रोथृ पर्याप्तौ’ (भ्वा० उ० से०) । ‘पुंसि-’ (३.३.११८) इति घः । कट्याः प्रोथौ मांसपिण्डौ । कटी, प्रोथौ, इति नामद्वयं वा । ‘स्त्रियां स्फिचौ कटिप्रोथौ कटीप्रोथौ च पूलकौ’ इति रभसः । ‘प्रोथोऽश्वघणाध्वगयोः कट्याम्’ इति हैमः ॥