कुकुन्दरम्

सुधाव्याख्या

कूपेति । कूपाविव । ‘इवे-’ (५.३.९६) इति कन् । ‘कूपको गुणवृक्षे स्यात्तैलपात्रे कुकुन्दरे’ इति हैमः । नितम्बे तिष्ठतः । ‘सुपि’ (३.२.४) इति कः । कुं भूमिं दारयति । ‘दॄ भये’ (क्र्या० प० से०) । ण्यन्तः । ‘कर्मण्यण्’ (३.२.१) । णिलोपस्य स्थानिवत्त्वान्न वृद्धिः । पृषोदरादिः (६.३.१०९) । कुत्सितं कुंदरम् । ईषत् कुन्दरमत्र, इति वा । यद्वा स्कुन्द्यते कामिना । ‘स्कुदि आप्लवने’ (भ्वा० आ० से०) । ‘मङ्गुरादयश्च’ (उ० १.४१) इति साधुः ॥ द्वयेन हीने ।