अमरकोशः


श्लोकः

पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा । स्यादुत्तानशया डिम्भा स्तनपा च स्तनंधयी ॥ ४१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 फलित फलितम् पुंलिङ्गः, नपुंसकलिङ्गः फलति । क्त उणादिः अकारान्तः
2 विस्रसा विस्रसा स्त्रीलिङ्गः विश्वस्यतेऽनया । अङ् कृत् आकारान्तः
3 जरा जरा स्त्रीलिङ्गः जीर्यतेऽनया । अङ् कृत् आकारान्तः
4 उत्तानशया उत्तानशया स्त्रीलिङ्गः उत्ताना शेते । अच् कृत् आकारान्तः
5 डिम्भा डिम्भा स्त्रीलिङ्गः डिम्भयति । अच् कृत् आकारान्तः
6 स्तनपा स्तनपा स्त्रीलिङ्गः स्तनौ पिबति । कृत् आकारान्तः
7 स्तनंधयी स्तनंधयी स्त्रीलिङ्गः स्तनं धयति । खश् कृत् ईकारान्तः