डिम्भा

सुधाव्याख्या

डिम्भयति । ‘डिभि संघे’ चुरादिः । अच् (३.१.१३४) । डिम्भ्यते वा । घञ् (३.३.१९) । अच् (३.३.५६) वा । ‘डिम्भोऽपि बालिशे बाले’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


डिभिँ संघे
डिभ् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
डि नुम् भ् - इदितो नुम् धातोः 7.1.58
डि न् भ् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
डिंभ् - नश्चापदान्तस्य झलि 8.3.24
डिम्भ् - अनुस्वारस्य ययि परसवर्णः 8.4.58
डिम्भ् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
डिम्भ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
डिम्भ + टाप् - अजाद्यतष्टाप्‌ 4.1.4
डिम्भ + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
डिम्भ - अकः सवर्णे दीर्घः 6.1.101
डिम्भा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
डिम्भा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
डिम्भा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68