फलितम्

सुधाव्याख्या

पेति । फलति । फलनम्वा । ‘फल निष्पत्तौ’ ‘ञिफला विशरणे' वा (भ्वा० प० से०) । ‘लोष्टपलितौ’ (उ० ३.९२) इति साधुः । यद्वा पलति स्म । ‘पल गतौ’ (भ्वा० प० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । पलनं वा । ‘नपुंसके भावे क्तः’ (३.३.११४) । ‘पलितं शैलजे तापे केशपाके च कर्दमे’ (इति मेदिनी) ॥ आदिना लोमश्मश्रुणोः ।