स्तनंधयी

सुधाव्याख्या

स्तनं धयति । ‘धेट् पाने’ (भ्वा० प० अ०) । ‘नासिकास्तनयोः-’ (३.२.१९) इति खश् । धेटष्टित्त्वात् (४.१.१५) ङीप् ॥ एषु त्रिलिङ्गता । ‘त्रिषु जरावराः’ इति वक्ष्यमाणत्वात् । स्त्रीलिङ्गनिर्देशः स्त्रीप्रत्ययप्रदर्शनार्थः ।


प्रक्रिया

धातुः -


धेट् पाने
धे - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
स्तन + अम् + धे + खश् - नासिकास्तनयोर्ध्माधेटोः 3.2.29, उपपदमतिङ् 2.2.19
स्तन + धे + खश् - सुपो धातुप्रातिपदिकयोः 2.4.71
स्तन + धे + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
स्तन + धय् + अ - एचोऽयवायावः 6.1.78
स्तन + मुम् + धय - अरुर्द्विषदजन्तस्य मुम् 6.3.67
स्तन + म् + धय - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्तनंधय - नश्चापदान्तस्य झलि 8.3.24
स्तनन्धय - अनुस्वारस्य ययि परसवर्णः 8.4.58
स्तनन्धय + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
स्तनन्धय + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
स्तनन्धय् + ई - यस्येति च 6.4.148
स्तनन्धयी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्तनन्धयी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्तनन्धयी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68