अमरकोशः


श्लोकः

पितामहः पितृपिता तत्पिता प्रपितामहः । मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः ॥ ३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पितामह पितामहः पुंलिङ्गः पितृपिता = पितुः पिता ॥ डामहच् तद्धितः अकारान्तः
2 पितृपितृ पितृपिता पुंलिङ्गः पितृपिता = पितुः पिता ॥ तत्पुरुषः समासः ऋकारान्तः
3 प्रपितामह प्रपितामहः पुंलिङ्गः तस्य पितामहस्य पिता । तत्पुरुषः समासः अकारान्तः
4 मातामह मातामहः पुंलिङ्गः मातुः पिता । तत्पुरुषः समासः अकारान्तः
5 प्रमातामह प्रमातामहः पुंलिङ्गः प्रकृष्टो मातामहः तत्पुरुषः समासः अकारान्तः
6 सपिण्ड सपिण्डः पुंलिङ्गः समानः पिण्डो देहो मूलपुरुषो निर्वाप्यो वास्य । बहुव्रीहिः समासः अकारान्तः
7 सनाभि सनाभिः पुंलिङ्गः समानो नाभिर्मूलपुरुषोऽस्य । बहुव्रीहिः समासः इकारान्तः