पितामहः

सुधाव्याख्या

‘मातृपितृभ्यां पितरि डामहच्’ । ‘मातरि षिच्च’ (वा० ४.२.३६) । ‘पितामहः पद्मयोनौ जनके जनकस्य च’ इति हैमः ॥


प्रक्रिया

धातुः -


पितृ + डामहच् - मातृपितृभ्यां पितरि डामहच् । मातरि षिच्च (4.2.36) । वार्तिकम् ।
पितृ + आमह - हलन्त्यम् 1.3.3,चुटू 1.3.7, तस्य लोपः 1.3.9
पित् + आमह - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
पितामह + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पितामह + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पितामह + रु - ससजुषो रुः 8.2.66
पितामह + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पितामहः - खरवसानयोर्विसर्जनीयः 8.3.15