सपिण्डः

सुधाव्याख्या

सेति । समानः पिण्डो देहो मूलपुरुषो निर्वाप्यो वास्य । ‘वान्यस्मिन्सपिण्डे-’ (४.१.१६५) इत्यादिनिर्देशात् समानस्य सः । यद्वा सह पिण्डेन वर्तते । ‘सपिण्डता तु पुरुषे सप्तमे विनिवर्तते’ । (मनुः ५.६०) ॥