मातामहः

सुधाव्याख्या

मेति । मातुः पितरि डामहच् (वा० ४.२.३६) । प्रकृष्टो मातामहः (प्रमातामहः) ॥


प्रक्रिया

धातुः -


मातृ + डामहच् - मातृपितृभ्यां पितरि डामहच्’ । ‘मातरि षिच्च’ (4.2.36) । वार्तिकम् ।
मात् + आमह - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मातामह - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
मातामह + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मातामह + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मातामह + रु - ससजुषो रुः 8.2.66
मातामह + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मातामहः - खरवसानयोर्विसर्जनीयः 8.3.15