अमरकोशः


श्लोकः

ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयो: । धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ ॥ ३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ज्ञातेय ज्ञातेयम् नपुंसकलिङ्गः ज्ञातेर्भावः । ढक् तद्धितः अकारान्तः
2 बन्धुता बन्धुता स्त्रीलिङ्गः बन्धूनां समूहः । तल् तद्धितः आकारान्तः
3 धव धवः पुंलिङ्गः धवति, धूयते, वा । अच् कृत् अकारान्तः
4 प्रिय प्रियः पुंलिङ्गः प्रीणाति । कृत् अकारान्तः
5 पति पतिः पुंलिङ्गः पाति । डति उणादिः इकारान्तः
6 भर्तृ भर्तृः पुंलिङ्गः बिभर्ति । तृच् कृत् ऋकारान्तः
7 जार जारः पुंलिङ्गः जारयति । घञ् कृत् अकारान्तः
8 उपपति उपपतिः पुंलिङ्गः उपमितः पत्या । तत्पुरुषः समासः इकारान्तः