धवः

सुधाव्याख्या

धेति । धवति, धूयते, वा । ‘धूञ् कम्पने’ (चु० उ० से०) । ‘आधृषाद्वा’ (चु० गण०) इति वा णिच् । अच् (३.१.१३४) । घञ् (३.३.१९) वा । संज्ञापूर्वकत्वान्न वृद्धिः । ‘ॠदोरप्’ (३.३.५७) वा । ‘घवः पुमान्नरे धूर्ते पत्यौ क्षान्तरेऽपि च’ (इति मेदिनी) ॥