जारः

सुधाव्याख्या

जेति । जारयति । ‘जॄष् वयोहानौ’ (भ्वा० प० से०) । ‘दारजारौ कर्तरि णिलुक् च’ (वा० ३.३.२०) इति घञ् । यत्तु-जीर्यतेऽनेन । करणे घञ् (३.३.१९)–इति मुकुटः । तन्न । ‘अजब्भ्याम्-’ (वा० ३.३.१२६) इति वार्तिकविरोधात् । ‘जारस्तूपपतौ जायौषधीभिदि’ इति हैमः ॥