उपपतिः

सुधाव्याख्या

उपमितः पत्या । ‘अवादयः क्रुष्टाद्यर्थे तृतीयया’ (वा० २.२.१८) इति समासः । उपसृष्टा पतिरनेन वा । ‘प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपश्च’ (वा० २.२.२४) इति समासः ॥