अमरकोशः


श्लोकः

समानोदर्यसोदर्यसगर्भ्यसहजाः समाः । सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥ ३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समानोदर्य समानोदर्यः पुंलिङ्गः समान उदरे शयितः । यत् तद्धितः अकारान्तः
2 सोदर्य सोदर्यः पुंलिङ्गः समान उदरे शयितः । तद्धितः अकारान्तः
3 सगर्भ्य सगर्भ्यः पुंलिङ्गः समाने गर्भे भवः । यत् तद्धितः अकारान्तः
4 सहज सहजः पुंलिङ्गः सह तुल्य उदरे जातः । कृत् अकारान्तः
5 सगोत्र सगोत्रः पुंलिङ्गः समानं गोत्रं कुलमस्य । बहुव्रीहिः समासः अकारान्तः
6 बान्धव बान्धवः पुंलिङ्गः बध्नाति । अण् तद्धितः अकारान्तः
7 ज्ञाति ज्ञातिः पुंलिङ्गः जानाति । क्तिच् कृत् इकारान्तः
8 बन्धु बन्धुः पुंलिङ्गः उणादिः उकारान्तः
9 स्व स्वः पुंलिङ्गः स्वनति । कृत् अकारान्तः
10 स्वजन स्वजनः पुंलिङ्गः स्व आत्मीयश्चासौ जनश्च ॥ तत्पुरुषः समासः अकारान्तः