बान्धवः

सुधाव्याख्या

बध्नाति । ‘बन्ध बन्धने’ (क्र्या० प० अ०) । ‘शृस्वृस्निहि-’ (उ० १.१०) इत्युः । प्रज्ञाद्यण् । (५.४.३८) वा । ‘बान्धवो बन्धुमित्रयोः’ इति हैमः ॥


प्रक्रिया

धातुः -


बन्धँ बन्धने
बन्ध् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
बन्ध् + उ - शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश (१.१०) । उणादिसूत्रम् ।
बन्धु + सु + अण् - प्रज्ञादिभ्यश्च 5.4.38
बन्धु + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
बन्धु + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
बान्धु + अ - तद्धितेष्वचामादेः 7.2.117
बान्धो + अ - ओर्गुणः 6.4.146
बान्धव् + अ - एचोऽयवायावः 6.1.78
बान्धव + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
बान्धव + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
बान्धव + रु - ससजुषो रुः 8.2.66
बान्धव + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
बान्धवः - खरवसानयोर्विसर्जनीयः 8.3.15