सगर्भ्यः

सुधाव्याख्या

समाने गर्भे भवः । ‘सगर्भसयूथ-’ (४.४.११४) इति यत् । ‘सगर्भ’ इति निर्देशात्सः । यद्वा सह तुल्ये गर्भे कुक्षौ भवः । ‘सह साकल्यसादृश्ययौगपद्यसमृद्धिषु’ इति विश्वः ॥