सहजः

सुधाव्याख्या

सह तुल्य उदरे जातः । ‘अन्येष्वपि-’ (३.३.१०१) इति डः ॥ सह उदरेण वर्तते । ‘वोपसर्जनस्य’ (६.३.८२) इति सः । ‘सोदरः’ ‘सहोदरः’ चात्र । (‘भ्राता तु स्यात्सहोदरः । समानोदर्यसोदर्यसगर्भ्यसहजा अपि । सोदरश्च’ इति नाममाला) । –‘सहस्य सोऽन्यतरस्याम्’ इति पाक्षिके सभावे –इति मुकुटश्चिन्त्यः तादृशसूत्राभावात् ।