अमरकोशः


श्लोकः

तदा कोलटिनेयोऽस्या: कौलटेयोऽपि चात्मजः । आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ॥ २७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कौलटिनेय कौलटिनेयः पुंलिङ्गः कुलटाया अपत्यम् । ढक् तद्धितः अकारान्तः
2 कौलटेय कौलटेयः पुंलिङ्गः कुलटाया अपत्यम् । ढक् तद्धितः अकारान्तः
3 आत्मज आत्मजः पुंलिङ्गः आत्मनो देहाज्जातः कृत् अकारान्तः
4 तनय तनयः पुंलिङ्गः तनोति कुलम् । कयन् उणादिः अकारान्तः
5 सूनु सूनुः पुंलिङ्गः सूयते । नु उणादिः उकारान्तः
6 सुत सुतः पुंलिङ्गः सूयते स्म । क्त कृत् अकारान्तः
7 पुत्र पुत्रः पुंलिङ्गः पुनाति, पूयते, वा । क्त्र उणादिः अकारान्तः