सूनुः

सुधाव्याख्या

सूयते । ‘षूङ् प्राणिप्रसवे’ (दि० आ० से०) । ‘सुवः कित्’ (उ० ३.३५) इति नुः । ‘सूनुः पुत्रेऽनुजेऽर्के ना’ (इति मेदिनी) ॥