सुतः

सुधाव्याख्या

सूयते स्म । ‘षु प्रसवे’ (भ्वा० प० अ०) । क्तः (३.२.१०२) सुवति–इति स्वामी । तन्न । दीर्घश्रवणप्रसङ्गात् । तस्याप्राप्तेश्च । ‘सुतस्तु पार्थिवे पुत्रे, स्त्र्यपत्ये तु सुता स्मृता’ (इति मेदिनी) ॥