पुत्रः

सुधाव्याख्या

पुनाति, पूयते, वा । ‘पूञ् पवने’ (क्र्या० उ० से०) । ‘पुवो ह्रस्वश्च’ (उ० ४.१६५) इति कः । यद्वा पुन्नरकात्त्रायते । ‘सुपि’ (३.२.४) इति कः । ‘पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः । तस्मात् ‘पुत्त्र’ इति प्रोक्तः स्वयमेव स्वयंभुवा’ (मनुः ९.१३८) ॥