अमरकोशः


श्लोकः

अस्त्री वितानमुल्लोच: दूष्याचं वस्त्रवेश्मनि । प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा ॥ १२० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वितान वितानः पुंलिङ्गः, नपुंसकलिङ्गः वितन्यते । घञ् कृत् अकारान्तः
2 उल्लोच उल्लोचः पुंलिङ्गः ऊर्ध्वं लोचति । अच् कृत् अकारान्तः
3 दूष्य दूष्यम् नपुंसकलिङ्गः दूष्यते । यत् कृत् अकारान्तः
4 प्रतिसीरा प्रतिसीरा स्त्रीलिङ्गः प्रति सिनोति । क्रन् उणादिः आकारान्तः
5 जवनिका जवनिका स्त्रीलिङ्गः जवत्यस्याम् । ल्युट् कृत् आकारान्तः
6 तिरस्करिणी तिरस्करिणी स्त्रीलिङ्गः तिरस्क्रियतेऽनया । णिनि कृत् ईकारान्तः