जवनिका

सुधाव्याख्या

जवत्यस्याम् । ‘जुः’ सौत्रो गतौ वेगे च । ल्युट् (३.३.११७) । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘यमनिका’ इति वा पाठः । यमयति । ‘यम उपरमे’ (भ्वा० प० अ०) । ल्युट् (३.३.११७) । कन् (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


जु सौत्रो धातुः
जु + ल्युट् - करणाधिकरणयोश्च 3.3.117
जु + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
जु + अन - युवोरनाकौ 7.1.1
जो + अन - सार्वधातुकार्धधातुकयोः 7.3.84
जव् + अन - एचोऽयवायावः 6.1.78
जवन + कन् - न सामिवचने 5.4.5, इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति ।
जवन + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
जवनक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
जवनक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
जवनका - अकः सवर्णे दीर्घः 6.1.101
जवनिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
जवनिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
जवनिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जवनिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68