दूष्यम्

सुधाव्याख्या

द्विति । दूष्यते । ‘दुष वैकृत्ये’ (दि० प० अ०) । ण्यन्तात् ‘अचो यत्’ (३.१.९७) । ‘दोषो णौ’ (६.४.९०) इत्युः । ‘दूष्यं त्रिषु दूषणीये क्लीबं वस्त्रे च तद्गृहे’ (इति मेदिनी) ॥ आद्येन कुटरपटकुटीपटवासादिग्रहः ।