उल्लोचः

सुधाव्याख्या

ऊर्ध्वं लोचति । ‘लोचृ भासने’ (चु० उ० से०) ऊर्ध्वं लोच्यते । ‘लोचृ दर्शने’ (भ्वा० आ० से०) वा । अच् (३.१.१३४) । घञ् । (३.३.१९) वा । कुत्वं तु ‘निष्ठायामनिटः’ (वा० ७.३.५३) इति वचनादस्य तु तत्र सेट्त्वात् ॥