अमरकोशः


श्लोकः

स्त्रियां बहुत्वे वस्त्रस्य दशा: स्युर्वस्तयोर्द्वयोः । दैर्घ्यमायाम आनाहः परिणाहो विशालता ॥ ११४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दशा दशा स्त्रीलिङ्गः दश्यते । अङ् कृत् आकारान्तः
2 वस्ति वस्तिः पुंलिङ्गः, स्त्रीलिङ्गः वस्यते । ति उणादिः इकारान्तः
3 दैर्घ्य दैर्घ्यम् नपुंसकलिङ्गः दीर्घस्य भावः । ष्यञ् तद्धितः अकारान्तः
4 आयाम आयामः पुंलिङ्गः आयम्यतेऽनेन । घञ् कृत् अकारान्तः
5 आनाह आनाहः पुंलिङ्गः आनह्यतेऽनेन । घञ् कृत् अकारान्तः
6 परिणाह परिणाहः पुंलिङ्गः परिणह्यतेऽनेन । घञ् कृत् अकारान्तः
7 विशालता विशालता स्त्रीलिङ्गः विशालस्य भावः तल् तद्धितः आकारान्तः