वस्तिः

सुधाव्याख्या

वस्यते । ‘वस आच्छादने’ (अ० आ० से०) । ‘वस स्नेहनादौ’ चुरादिः । चुरादीनां णिज्वा । ‘वसेस्तिः’ (उ० ४.१८०) । ‘वस्तिर्द्वयोर्निरूहे नाभ्यधो भूम्नि दशासु च’ (इति मेदिनी) ॥