आनाहः

सुधाव्याख्या

आनह्यतेऽनेन । ‘णह बन्धने’ (दि० उ० अ०) । घञ् (३.३.१९) । ‘आरोहः’ इति क्वचित्पाठः । आरुह्यतेऽनेन । घञ् (३.३.१९) । ‘आरोहस्त्ववरोहे च वरयोषित्कटावपि । आरोहणे गजारोहे दीर्घत्वे च समुच्छ्रये’ (इति मेदिनी) ॥