अमरकोशः


श्लोकः

कान्तार्थिनी तुया याति सङ्केतं साभिसारिका । पुंश्चली चर्षिणी बन्धक्यसती कुलटेत्वरी ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अभिसारिका अभिसारिका स्त्रीलिङ्गः अभिसरति । ण्वुल् कृत् आकारान्तः
2 पुंश्चली पुंश्चली स्त्रीलिङ्गः पुंसो भर्तुः सकाशाच्चलति पुरुषान्तरं गच्छति । अच् कृत् ईकारान्तः
3 चर्षणी चर्षणी स्त्रीलिङ्गः कर्षति मनः । अनि उणादिः ईकारान्तः
4 बन्धकी बन्धकी स्त्रीलिङ्गः बध्नाति मनोऽत्र । ण्वुल् कृत् ईकारान्तः
5 असती असती स्त्रीलिङ्गः सत्या भिन्ना ॥ तत्पुरुषः समासः ईकारान्तः
6 कुलटा कुलटा स्त्रीलिङ्गः कुलस्य अटा । अच् कृत् आकारान्तः
7 इत्वरी इत्वरी स्त्रीलिङ्गः एति । क्वरप् कृत् ईकारान्तः